Loading...
ऋग्वेद मण्डल - 9 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 1
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    श॒र्य॒णाव॑ति॒ सोम॒मिन्द्र॑: पिबतु वृत्र॒हा । बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    श॒र्य॒णाऽव॑ति । सोम॑म् । इन्द्रः॑ । पि॒ब॒तु॒ । वृ॒त्र॒ऽहा । बल॑म् । दधा॑नः । आ॒त्मनि॑ । क॒रि॒ष्यन् । वी॒र्य॑म् । म॒हत् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    शर्यणावति सोममिन्द्र: पिबतु वृत्रहा । बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    शर्यणाऽवति । सोमम् । इन्द्रः । पिबतु । वृत्रऽहा । बलम् । दधानः । आत्मनि । करिष्यन् । वीर्यम् । महत् । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 1

    पदार्थः -
    (शर्यणावति)  कर्मयोगिनि  (सोमं)  ईश्वरानन्दं (इन्द्रः)  परमैश्वर्यं प्राप्स्यन् राजा (पिबतु) पिबेत्  स राजा  (वृत्रहा)  शत्रुरूपमेघान् नाशयति (बलं, दधानः) बलं धारयन् (आत्मनि)  स्वस्मिन् (महत्, वीर्यं) अतिबलं (करिष्यन्) उत्पादयन्  राज्यार्हो  भवति (इन्द्राय) ईदृशे राज्ञे  (इन्दो)  हे प्रकाशस्वरूप परमात्मन् ! भवान्  (परि, स्रव) अभिषेकहेतुर्भवतु ॥१॥

    इस भाष्य को एडिट करें
    Top