Loading...
ऋग्वेद मण्डल - 9 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 113/ मन्त्र 2
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः । ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    आ । प॒व॒स्व॒ । दि॒शा॒म् । प॒ते॒ । आ॒र्जी॒कात् । सोम॑ । मीढ्वः॑ । ऋ॒त॒ऽवा॒केन॑ । स॒त्येन॑ । श्र॒द्धया॑ । तप॑सा । सु॒तः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः । ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    आ । पवस्व । दिशाम् । पते । आर्जीकात् । सोम । मीढ्वः । ऋतऽवाकेन । सत्येन । श्रद्धया । तपसा । सुतः । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 113; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 26; मन्त्र » 2

    पदार्थः -
    (सोम) हे सोमस्वभाव  (मीढ्वः) कामप्रद (दिशाम्, पते) सर्वव्यापक परमात्मन् ! भवान्  (आर्जीकात्)  सरलताभावेन प्रजासु  ( आ, पवस्व)  पवित्रतामुत्पादय  (ऋतवाकेन,  सत्येन)  वाक्सत्यतया (श्रद्धया) श्रद्धया च (तपसा) तपसा च (सुतः) यो  राज्यार्हः तस्मै (इन्द्राय) राज्ञे (परि, स्रव) अभिषेकहेतुर्भवतु ॥२॥

    इस भाष्य को एडिट करें
    Top