Loading...
ऋग्वेद मण्डल - 9 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 19/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धिय॑: ॥

    स्वर सहित पद पाठ

    यु॒वम् । हि । स्थः । स्व॑र्पती॒ इति॒ स्वः॑ऽपती । इन्द्रः॑ । च॒ । सो॒म॒ । गोप॑ती॒ इति॒ गोऽप॑ती । ई॒शा॒ना पि॑प्यत॒न् धियः॑ ॥


    स्वर रहित मन्त्र

    युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती । ईशाना पिप्यतं धिय: ॥

    स्वर रहित पद पाठ

    युवम् । हि । स्थः । स्वर्पती इति स्वःऽपती । इन्द्रः । च । सोम । गोपती इति गोऽपती । ईशाना । पिप्यतन् । धियः ॥ ९.१९.२

    ऋग्वेद - मण्डल » 9; सूक्त » 19; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 2

    पदार्थः -
    (सोम) हे परमात्मन् ! भवान् (इन्द्रश्च) अध्यापकश्च (युवम् हि) उभावपि (स्वर्पती) सुखस्वामिनौ (स्थः) भवथः (गोपती) वाणीपती अपि स्थः (ईशाना) शिक्षां प्रदातुमीश्वरौ च स्थः (धियः पिप्यतम्) युवामुभावपि मद्बुद्धीः उपदेशेन समेधयतम् ॥२॥

    इस भाष्य को एडिट करें
    Top