ऋग्वेद - मण्डल 9/ सूक्त 19/ मन्त्र 5
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पय॑: ॥
स्वर सहित पद पाठकु॒वित् । वृ॒ष॒न्यन्ती॑भ्यः । पु॒ना॒नः । गर्भ॑म् । आ॒ऽदध॑त् । याः । शु॒क्रम् । दु॒ह॒ते । पयः॑ ॥
स्वर रहित मन्त्र
कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् । याः शुक्रं दुहते पय: ॥
स्वर रहित पद पाठकुवित् । वृषन्यन्तीभ्यः । पुनानः । गर्भम् । आऽदधत् । याः । शुक्रम् । दुहते । पयः ॥ ९.१९.५
ऋग्वेद - मण्डल » 9; सूक्त » 19; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 5
पदार्थः -
(पुनानः) सर्वस्य पावयिता परमात्मा (वृषण्यन्तीभ्यः) प्रकृतिभ्यः (कुविद् गर्भम्) बहुं गर्भं (आदधत्) दधार (याः) याः प्रकृतयः (शुक्रम् पयः) सूक्ष्मभूतेभ्यः कार्यरूपब्रह्माण्डं (दुहते) दुहन्ति ॥५॥