Loading...
ऋग्वेद मण्डल - 9 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 21/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒: सुष्व॑ये वरिवो॒विद॑: । स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑: ॥

    स्वर सहित पद पाठ

    प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ । स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥


    स्वर रहित मन्त्र

    प्रवृण्वन्तो अभियुज: सुष्वये वरिवोविद: । स्वयं स्तोत्रे वयस्कृत: ॥

    स्वर रहित पद पाठ

    प्रऽवृण्वन्तः । अभिऽयुजः । सुस्वये । वरिवःऽविदः । स्वयम् । स्तोत्रे । वयःऽकृतः ॥ ९.२१.२

    ऋग्वेद - मण्डल » 9; सूक्त » 21; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 11; मन्त्र » 2

    पदार्थः -
    (प्रवृण्वन्तः) यो हि जनैः सम्यग्भज्यते (अभियुजः) यश्चान्येषां प्रेरकः (सुष्वये) सेवकाय (वरिवोविदः) धनानां दाता च (स्वयम्) स्वसत्तया विराजमानः (स्तोत्रे वयस्कृतः) स एव स्वस्तुतिकर्त्रे अन्नादीनां प्रदाता चास्ति ॥२॥

    इस भाष्य को एडिट करें
    Top