ऋग्वेद - मण्डल 9/ सूक्त 23/ मन्त्र 7
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥
स्वर सहित पद पाठअ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥
स्वर रहित मन्त्र
अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति । जघान जघनच्च नु ॥
स्वर रहित पद पाठअस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति । जघान । जघनत् । च । नु ॥ ९.२३.७
ऋग्वेद - मण्डल » 9; सूक्त » 23; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 13; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 13; मन्त्र » 7
पदार्थः -
(अस्य) अस्य परमात्मन आनन्दम् (पीत्वा) अनुभूय (मदानाम्) यो हि परमात्मा सर्वविधमदान् तिरस्कृत्य विराजते (इन्द्रः) कर्मयोगी (वृत्राणि) अज्ञानानां (अप्रति) प्रतिपक्षी भूत्वा (जघान) तानि नाशयायास (जघनच्च) नाशयति (नु) निश्चयं तदानन्दमेव पिब ॥७॥ इति त्रयोविंशं सूक्तं त्रयोदशो वर्गश्च समाप्तः ॥