ऋग्वेद - मण्डल 9/ सूक्त 24/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
प्र सोमा॑सो अधन्विषु॒: पव॑मानास॒ इन्द॑वः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
स्वर सहित पद पाठप्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः । श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥
स्वर रहित मन्त्र
प्र सोमासो अधन्विषु: पवमानास इन्दवः । श्रीणाना अप्सु मृञ्जत ॥
स्वर रहित पद पाठप्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्ऽसु । मृञ्जत ॥ ९.२४.१
ऋग्वेद - मण्डल » 9; सूक्त » 24; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 1
पदार्थः -
(सोमासः) सौम्यस्वभावस्य कर्तारः परमात्मन आह्लादादिगुणाः (पवमानासः) ये च पवित्रकर्तारः (इन्दवः) दीप्तिमन्तश्च ये च कर्मयोगिषु (प्राधन्विषुः) प्रकर्षतयोत्पद्यन्ते ते (श्रीणानाः) सेविताः सन्तः (अप्सु) वाङ्मनःशरीराणां त्रिविधानामपि यत्नानां (मृञ्जत) शुद्धिमुत्पादयन्ति ॥१॥