Loading...
ऋग्वेद मण्डल - 9 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 24/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः । पु॒ना॒ना इन्द्र॑माशत ॥

    स्वर सहित पद पाठ

    अ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः । पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥


    स्वर रहित मन्त्र

    अभि गावो अधन्विषुरापो न प्रवता यतीः । पुनाना इन्द्रमाशत ॥

    स्वर रहित पद पाठ

    अभि । गावः । अधन्विषुः । आपः । न । प्रऽवता । यतीः । पुनानाः । इन्द्रम् । आशत ॥ ९.२४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 24; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 2

    पदार्थः -
    (गावः) इन्द्रियाणि कर्मयोगिषु (आपः न) जलमिव (प्रवता) वेगवन्ति (अभि अधन्विषुः) भवन्ति (यतीः) वशीभूतानि भवन्ति (पुनानाः) तानि च पवित्रीकुर्वाणानि (इन्द्रम् आशत) परमात्मानं विषयीकुर्वन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top