ऋग्वेद - मण्डल 9/ सूक्त 37/ मन्त्र 3
स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति । र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
स्वर सहित पद पाठसः । वा॒जी । रो॒च॒ना । दि॒वः । पव॑मानः । वि । धा॒व॒ति॒ । र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥
स्वर रहित मन्त्र
स वाजी रोचना दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥
स्वर रहित पद पाठसः । वाजी । रोचना । दिवः । पवमानः । वि । धावति । रक्षःऽहा । वारम् । अव्ययम् ॥ ९.३७.३
ऋग्वेद - मण्डल » 9; सूक्त » 37; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 3
पदार्थः -
(सः) सः परमात्मा (वाजी) प्रबलः (दिवः रोचना) अन्तरिक्षस्य प्रकाशकः (रक्षोहा) असत्कर्मिणां विहन्ता (वारम्) सर्वेषां सेव्यः (अव्ययम्) अविनाशी चास्ति (पवमानः) एवम्भूतः परमात्मा सर्वं पवित्रयन् (विधावति) सर्वत्र व्यापकत्वेन वर्तते ॥३॥