ऋग्वेद - मण्डल 9/ सूक्त 37/ मन्त्र 2
स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥
स्वर सहित पद पाठसः । प॒वित्रे॑ । वि॒ऽच॒क्ष॒णः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । अ॒भि । योनि॑म् । कनि॑क्रदत् ॥
स्वर रहित मन्त्र
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥
स्वर रहित पद पाठसः । पवित्रे । विऽचक्षणः । हरिः । अर्षति । धर्णसिः । अभि । योनिम् । कनिक्रदत् ॥ ९.३७.२
ऋग्वेद - मण्डल » 9; सूक्त » 37; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 2
पदार्थः -
(अभियोनिम्) प्रकृतिं सर्वामवष्टभ्य (कनिक्रदत्) शब्दायमानः (सः) सः परमात्मा (पवित्रे अर्षति) शुचिषु हृदयेषु निवसति किञ्च (विचक्षणः) सर्वद्रष्टा (हरिः) पापापनुदः (धर्णसिः) सर्वेषां धाता चास्ति ॥२॥