ऋग्वेद - मण्डल 9/ सूक्त 40/ मन्त्र 2
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥
स्वर सहित पद पाठआ । योनि॑म् । अ॒रु॒णः । रु॒ह॒त् । गम॑त् । इन्द्र॑म् । वृषा॑ । सु॒तः । ध्रु॒वे । सद॑सि । सी॒द॒ति॒ ॥
स्वर रहित मन्त्र
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः । ध्रुवे सदसि सीदति ॥
स्वर रहित पद पाठआ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रम् । वृषा । सुतः । ध्रुवे । सदसि । सीदति ॥ ९.४०.२
ऋग्वेद - मण्डल » 9; सूक्त » 40; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 2
पदार्थः -
(अरुणः) सर्वव्यापकः (सुतः) स्वयम्भूः स परमात्मा (आयोनिं रुहत्) अखिलां प्रकृतिं व्याप्नोति किञ्च (वृषा) सर्वाभिलाषदः सः (सदसि) यज्ञस्थले (इन्द्रम् गमत्) ज्ञानयोगिनं प्राप्नुवन् (ध्रुवे सीदति) तदीये दृढविश्वासेऽन्तःकरणे विराजते ॥२॥