ऋग्वेद - मण्डल 9/ सूक्त 42/ मन्त्र 2
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥
स्वर सहित पद पाठए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥
स्वर रहित मन्त्र
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । धारया पवते सुतः ॥
स्वर रहित पद पाठएषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । धारया । पवते । सुतः ॥ ९.४२.२
ऋग्वेद - मण्डल » 9; सूक्त » 42; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 2
पदार्थः -
(प्रत्नेन मन्मना) प्राक्तनया वेदमयस्तुत्या (देवः) प्रकाशमानः (एषः सुतः) अयं स्वयंसिद्धः परमात्मा (देवेभ्यः) दिव्यगुणसम्पन्नान् विदुषः (धारया) आनन्दस्रोतसा (परि पवते) सुष्ठु आह्लादयति ॥२॥