Loading...
ऋग्वेद मण्डल - 9 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 47/ मन्त्र 5
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे॑षु जि॒ग्युषा॑मसि ॥

    स्वर सहित पद पाठ

    सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव । भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥


    स्वर रहित मन्त्र

    सिषासतू रयीणां वाजेष्वर्वतामिव । भरेषु जिग्युषामसि ॥

    स्वर रहित पद पाठ

    सिसासतुः । रयीणाम् । वाजेषु । अर्वताम्ऽइव । भरेषु । जिग्युषाम् । असि ॥ ९.४७.५

    ऋग्वेद - मण्डल » 9; सूक्त » 47; मन्त्र » 5
    अष्टक » 7; अध्याय » 1; वर्ग » 4; मन्त्र » 5

    पदार्थः -
    (वाजेषु अर्वताम् इव) हे सर्वरक्षक परमात्मन् ! भवान् सर्वशक्तिषु व्यापक इव (भरेषु जिग्युषाम्) रणे जयमिच्छुभ्यः कर्मयोगिभ्यः (रयीणाम् सिषासतुरसि) सम्पूर्णोपयोगि-पदार्थप्रदाता चास्ति ॥५॥ इति सप्तचत्वारिंशत्तमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top