Loading...
ऋग्वेद मण्डल - 9 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 49/ मन्त्र 5
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुच॑: ॥

    स्वर सहित पद पाठ

    पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् । प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥


    स्वर रहित मन्त्र

    पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुच: ॥

    स्वर रहित पद पाठ

    पवमानः । असिस्यदत् । रक्षांसि । अपऽजङ्घनत् । प्रत्नऽवत् । रोचयन् । रुचः ॥ ९.४९.५

    ऋग्वेद - मण्डल » 9; सूक्त » 49; मन्त्र » 5
    अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 5

    पदार्थः -
    (पवमानः) सर्वपवित्रकर्ता परमात्मा (रक्षांसि अपजङ्घनत्) असत्कर्मिणां नाशं कुर्वन् तथा (प्रत्नवत् रुचः रोचयन्) पूर्ववदेव सम्पूर्णब्रह्माण्डे स्वतेजो विस्तारयन् (असिस्यदत्) सर्वत्र व्याप्नोति ॥५॥ इति ऊनपञ्चाशत्तमं सूक्तं षष्ठो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top