ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 4
ऋषिः - असितः काश्यपो देवलो वा
देवता - आप्रियः
छन्दः - गायत्री
स्वरः - षड्जः
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरि॑: । दे॒वेषु॑ दे॒व ई॑यते ॥
स्वर सहित पद पाठब॒र्हिः । प्रा॒चीन॑म् । ओज॑सा । पव॑मानः । स्तृ॒णन् । हरिः॑ । दे॒वेषु॑ । दे॒वः । ई॒य॒ते॒ ॥
स्वर रहित मन्त्र
बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरि: । देवेषु देव ईयते ॥
स्वर रहित पद पाठबर्हिः । प्राचीनम् । ओजसा । पवमानः । स्तृणन् । हरिः । देवेषु । देवः । ईयते ॥ ९.५.४
ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 4
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 4
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 4
पदार्थः -
(बर्हिः) सर्वोत्कृष्टः परमात्मा (ओजसा) स्वतेजसा सर्वं (पवमानः) पुनानः (प्राचीनम्) प्रवाहरूपेण संसारं (स्तृणन्) कार्यरूपेण विपरिणमयन् (हरिः) अन्ते स्वस्मिन् अन्तर्भावयति (देवेषु) सर्वदिव्यवस्तुषु (देवः) सर्वाधिकद्योतमानः स एव ध्यानेन (ईयते) साक्षात्क्रियते ॥४॥