ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 3
ऋषिः - असितः काश्यपो देवलो वा
देवता - आप्रियः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
ई॒ळेन्य॒: पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥
स्वर सहित पद पाठई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् । मधोः॑ । धारा॑भिः । ओज॑सा ॥
स्वर रहित मन्त्र
ईळेन्य: पवमानो रयिर्वि राजति द्युमान् । मधोर्धाराभिरोजसा ॥
स्वर रहित पद पाठईळेन्यः । पवमानः । रयिः । वि । राजति । द्युऽमान् । मधोः । धाराभिः । ओजसा ॥ ९.५.३
ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 3
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 3
पदार्थः -
(ईळेन्यः) उपासनीयः परमात्मा (पवमानः) शुद्धरूपः (रयिः) सर्वविधसुखप्रदः (मधोर्धाराभिः) आनन्दवृष्टिभिः तथा (ओजसा) प्रतापेन च (विराजति) उत्कर्षं प्राप्नोति स च (द्युमान्) ज्योतिःस्वरूपोऽस्ति ॥३॥