ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - आप्रियः
छन्दः - गायत्री
स्वरः - षड्जः
तनू॒नपा॒त्पव॑मान॒: शृङ्गे॒ शिशा॑नो अर्षति । अ॒न्तरि॑क्षेण॒ रार॑जत् ॥
स्वर सहित पद पाठतनू॒नपा॑त् । पव॑मानः । शृङ्गे॒ इति॑ । शिशा॑नः । अ॒र्ष॒ति॒ । अ॒न्तरि॑क्षेण । रार॑जत् ॥
स्वर रहित मन्त्र
तनूनपात्पवमान: शृङ्गे शिशानो अर्षति । अन्तरिक्षेण रारजत् ॥
स्वर रहित पद पाठतनू३नपात् । पवमानः । शृङ्गे इति । शिशानः । अर्षति । अन्तरिक्षेण । रारजत् ॥ ९.५.२
ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 24; मन्त्र » 2
पदार्थः -
(तनूनपात्) सर्वशरीराणामधिकरणरूपेण धारकः (पवमानः) सर्वेषां पावयिताऽस्ति (शृङ्गे शिशानः) यो हि कूटस्थनित्योऽस्ति तथा (अर्षति) सर्वं व्याप्य तिष्ठति (अन्तरिक्षेण रारजत्) यश्च द्यावापृथिव्योरधिकरणरूपेण विराजते, स नः पुनातु ॥२॥