ऋग्वेद - मण्डल 9/ सूक्त 50/ मन्त्र 2
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युव॑: । यदव्य॒ एषि॒ सान॑वि ॥
स्वर सहित पद पाठप्र॒ऽस॒वे । ते॒ । उत् । ई॒र॒ते॒ । ति॒स्रः । वाचः॑ । म॒ख॒स्युवः॑ । यत् । अव्ये॑ । एषि॑ । सान॑वि ॥
स्वर रहित मन्त्र
प्रसवे त उदीरते तिस्रो वाचो मखस्युव: । यदव्य एषि सानवि ॥
स्वर रहित पद पाठप्रऽसवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः । यत् । अव्ये । एषि । सानवि ॥ ९.५०.२
ऋग्वेद - मण्डल » 9; सूक्त » 50; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 7; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 7; मन्त्र » 2
पदार्थः -
(यत्) यदा भवान् (मखस्युवः अव्ये सानवि एषि) यज्ञकारिणां गोपनीयोच्चयज्ञस्थलेषु प्राप्तो भवति तदा ते ऋत्विजः (ते प्रसवे) भवदाविर्भावेन (तिस्रः वाचः उदीरते) ज्ञानकर्मोपासनाविषयिणीनां तिसृणां वाचामुच्चारणं कुर्वन्ति ॥२॥