ऋग्वेद - मण्डल 9/ सूक्त 52/ मन्त्र 1
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा । सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥
स्वर सहित पद पाठपरि॑ । द्यु॒क्षः । स॒नत्ऽर॑यिः । भर॑त् । वाज॑म् । नः॒ । अन्ध॑सा । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ॥
स्वर रहित मन्त्र
परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा । सुवानो अर्ष पवित्र आ ॥
स्वर रहित पद पाठपरि । द्युक्षः । सनत्ऽरयिः । भरत् । वाजम् । नः । अन्धसा । सुवानः । अर्ष । पवित्रे । आ ॥ ९.५२.१
ऋग्वेद - मण्डल » 9; सूक्त » 52; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 1
विषयः - अथ सदुपदेशं वर्णयति।
पदार्थः -
हे जगदीश ! भवान् (परि द्युक्षः) सर्वोपरि विराजते। स त्वं (नः) अस्मभ्यं (सनद्रयिः) धनानि ददत् (अन्धसा) सहान्नाद्यैश्वर्य्यः (वाजम्) बलं (भरत्) परिपूरय। तथा (सुवानः) स्तवनानन्तरं भवान् (पवित्रे आ अर्ष) शुद्धान्तःकरणे निवासं करोतु ॥१॥