ऋग्वेद - मण्डल 9/ सूक्त 52/ मन्त्र 2
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो या॒त्तना॑ ॥
स्वर सहित पद पाठतव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥
स्वर रहित मन्त्र
तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः । सहस्रधारो यात्तना ॥
स्वर रहित पद पाठतव । प्रत्नेभिः । अध्वऽभिः । अव्यः । वारे । परि । प्रियः । सहस्रऽधारः । यात् । तना ॥ ९.५२.२
ऋग्वेद - मण्डल » 9; सूक्त » 52; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 2
पदार्थः -
जगदाधार परमात्मन् ! (तव प्रियः अव्यः) भवत्प्रियो रक्षणीय उपासकः (प्रत्नेभिरध्वभिः) भवतः प्राचीनवेदविहितमार्गेण (सहस्रधारः) भवदनेकामोदधाराभिश्च युतत्वात् (तना) समृद्धीभूय (वारे परियात्) भवतः प्रार्थनीयं पदं प्राप्नोतु ॥२॥