ऋग्वेद - मण्डल 9/ सूक्त 52/ मन्त्र 3
च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय । व॒धैर्व॑धस्नवीङ्खय ॥
स्वर सहित पद पाठच॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इ॒न्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ । व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥
स्वर रहित मन्त्र
चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय । वधैर्वधस्नवीङ्खय ॥
स्वर रहित पद पाठचरुः । न । यः । तम् । ईङ्खय । इन्दो इति । न । दानम् । ईङ्खय । वधैः । वधस्नो इति वधऽस्नो । ईङ्खय ॥ ९.५२.३
ऋग्वेद - मण्डल » 9; सूक्त » 52; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 3
पदार्थः -
(इन्दो) हे परमेश्वर ! (यः चरुः) यस्त्वं चराचरग्रहणकर्तासि (तम् न ईङ्खय) स त्वमाशु स्वरूपतां नय। अथ च (दानम् न ईङ्खय) मह्यं दातव्यमपि वस्तु झटिति प्रापय। (वधैः वधस्नो ईङ्खय) हे प्रबलशक्त्या रातिनाशकर्त्तः परमात्मन् ! मां शुभकर्मणि नियोजय ॥३॥