ऋग्वेद - मण्डल 9/ सूक्त 52/ मन्त्र 4
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । यो अ॒स्माँ आ॒दिदे॑शति ॥
स्वर सहित पद पाठनि । शुष्म॑म् । इ॒न्दो॒ । एषा॑म् । पुरु॑ऽहूत । जना॑नाम् । यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥
स्वर रहित मन्त्र
नि शुष्ममिन्दवेषां पुरुहूत जनानाम् । यो अस्माँ आदिदेशति ॥
स्वर रहित पद पाठनि । शुष्मम् । इन्दो । एषाम् । पुरुऽहूत । जनानाम् । यः । अस्मान् । आऽदिदेशति ॥ ९.५२.४
ऋग्वेद - मण्डल » 9; सूक्त » 52; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 4
पदार्थः -
(इन्दो) हे सर्वनियन्तः परमेश्वर ! (पुरुहूत) हे बुधगुणस्तुत ! (एषाम् जनानाम् बलम् नि) विदुषामेतेषामोजो वर्धय। (यः अस्मान् आदिदेशति) यो भवान् अस्माकमनुशास्तास्ति ॥४॥