ऋग्वेद - मण्डल 9/ सूक्त 52/ मन्त्र 5
श॒तं न॑ इन्द ऊ॒तिभि॑: स॒हस्रं॑ वा॒ शुची॑नाम् । पव॑स्व मंह॒यद्र॑यिः ॥
स्वर सहित पद पाठश॒तम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒हस्र॑म् । वा॒ । शुची॑णाम् । पव॑स्व । मं॒ह॒यत् ऽर॑यिः ॥
स्वर रहित मन्त्र
शतं न इन्द ऊतिभि: सहस्रं वा शुचीनाम् । पवस्व मंहयद्रयिः ॥
स्वर रहित पद पाठशतम् । नः । इन्दो इति । ऊतिऽभिः । सहस्रम् । वा । शुचीणाम् । पवस्व । मंहयत् ऽरयिः ॥ ९.५२.५
ऋग्वेद - मण्डल » 9; सूक्त » 52; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 9; मन्त्र » 5
पदार्थः -
(इन्दो) हे विश्वकर्तः ! (मंहयद्रयिः) त्वं मदैश्वर्यादीन् वर्धयन् (ऊतिभिः) रक्षार्थं अत्र “चतुर्थ्यर्थे तृतीया भवति” (शुचीनां शतम् न सहस्रम् वा) पूताः शतसहस्रशक्तीः (पवस्व) उत्पादय ॥५॥ इति द्विपञ्चाशत्तमं सूक्तं नवमो वर्गश्च समाप्तः ॥