साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 53/ मन्त्र 1
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृध॑: ॥
स्वर सहित पद पाठउत् । ते॒ । शुष्मा॑सः । अ॒स्थुः॒ । रक्षः॑ । भि॒न्दन्तः॑ । अ॒द्रि॒ऽवः॒ । नु॒दस्व॑ । याः । प॒रि॒ऽस्पृधः॑ ॥
स्वर रहित मन्त्र
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृध: ॥
स्वर रहित पद पाठउत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिऽवः । नुदस्व । याः । परिऽस्पृधः ॥ ९.५३.१
ऋग्वेद - मण्डल » 9; सूक्त » 53; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 10; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 10; मन्त्र » 1
पदार्थः -
(अद्रिवः) हे शस्त्रधारिन् ! (ते शुष्मासः) भवतः शत्रुशोषिकाः शक्तयः (रक्षः भिन्दन्तः) रक्षांसि निघ्नन् (उदस्थुः) सदोद्यता भवन्ति | (नुदस्व याः परिस्पृधः) ये भवद्द्वेषिणस्तेषां शक्तीः स्तम्भय ॥१॥