साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 54/ मन्त्र 4
परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः । पु॒ना॒न इ॑न्दविन्द्र॒युः ॥
स्वर सहित पद पाठपरि॑ । नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्ष॒सि॒ । गोऽम॑तः । पु॒ना॒नः । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः ॥
स्वर रहित मन्त्र
परि णो देववीतये वाजाँ अर्षसि गोमतः । पुनान इन्दविन्द्रयुः ॥
स्वर रहित पद पाठपरि । नः । देवऽवीतये । वाजान् । अर्षसि । गोऽमतः । पुनानः । इन्दो इति । इन्द्रऽयुः ॥ ९.५४.४
ऋग्वेद - मण्डल » 9; सूक्त » 54; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 11; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 11; मन्त्र » 4
पदार्थः -
(इन्दो) हे सर्वलोकस्वामिन् ! (नः) अस्मान् (परि पुनानः) सर्वतः पवित्रयन् भवान् (देववीतये) देवतानां तर्पणाय (गोमतः वाजान्) गवाद्यैश्वर्यान् (अर्षसि) ददाति (इन्द्रयुः) यतो भवान् दिव्यगुणयुक्तसमीचीनकर्मकुर्वतामभिलाषुकोऽस्ति ॥४॥ इति चतुःपञ्चाशत्तमं सूक्तमेकादशो वर्गश्च समाप्तः ॥