Loading...
ऋग्वेद मण्डल - 9 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 55/ मन्त्र 3
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥

    स्वर सहित पद पाठ

    उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा । म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥


    स्वर रहित मन्त्र

    उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥

    स्वर रहित पद पाठ

    उत । नः । गोऽवित् । अश्वऽवित् । पवस्व । सोम । अन्धसा । मक्षुऽतमेभिः । अहऽभिः ॥ ९.५५.३

    ऋग्वेद - मण्डल » 9; सूक्त » 55; मन्त्र » 3
    अष्टक » 7; अध्याय » 1; वर्ग » 12; मन्त्र » 3

    पदार्थः -
    (उत नः) यो ह्यस्मभ्यं (गोवित् अश्ववित्) गवाद्यैश्वर्यप्रापको भवानेव, अतः (सोम) हे जगदाधार ! (मक्षूतमेभिः अहभिः) अचिरेणैव कालेन (अन्धसा पवस्व) समस्तान्नादिसमृद्ध्या पवित्रय ॥३॥

    इस भाष्य को एडिट करें
    Top