साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 55/ मन्त्र 2
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥
स्वर सहित पद पाठइन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः । नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥
स्वर रहित मन्त्र
इन्दो यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥
स्वर रहित पद पाठइन्दो इति । यथा । तव । स्तवः । यथा । ते । जातम् । अन्धसः । नि । बर्हिषि । प्रिये । सदः ॥ ९.५५.२
ऋग्वेद - मण्डल » 9; सूक्त » 55; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 12; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 12; मन्त्र » 2
पदार्थः -
(इन्दो) हे परमेश्वर ! (यथा तव स्तवः) येन प्रकारेण भवद्यशः सर्वस्मिन् संसारे व्याप्नोति अथ च (यथा ते अन्धसः जातम्) येन प्रकारेणान्नादिपदार्थानां राशिर्भवतैव निर्मितः तेनैव प्रकारेण (निषदः प्रिये बर्हिषि) यदिह भवतः प्रियं यज्ञपदं तस्मिन् आगत्य विराजताम् ॥२॥