साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 56/ मन्त्र 3
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत । मृ॒ज्यसे॑ सोम सा॒तये॑ ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ । मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥
स्वर रहित मन्त्र
अभि त्वा योषणो दश जारं न कन्यानूषत । मृज्यसे सोम सातये ॥
स्वर रहित पद पाठअभि । त्वा । योषणः । दश । जारम् । न । कन्या । अनूषत । मृज्यसे । सोम । सातये ॥ ९.५६.३
ऋग्वेद - मण्डल » 9; सूक्त » 56; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 3
पदार्थः -
(कन्या जारम् न) यथा दीपनमग्नेः प्रभवति तथैव (दश योषणः) दशेन्द्रियवृत्तयः (त्वा अभ्यनूषत) भवन्नुतिद्वारेण प्राप्ता भवन्ति। (सोम) हे नारायण ! (सातये) भवानिष्टप्राप्तये (मृज्यसे) ध्यानगोचरः क्रियते ॥३॥