Loading...
ऋग्वेद मण्डल - 9 के सूक्त 56 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 56/ मन्त्र 2
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युव॑: । इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥

    स्वर सहित पद पाठ

    यत् । सोमः॑ । वाज॑म् । अर्ष॑ति । श॒तम् । धाराः॑ । अ॒प॒स्युवः॑ । इन्द्र॑स्य । स॒ख्यम् । आ॒ऽवि॒शन् ॥


    स्वर रहित मन्त्र

    यत्सोमो वाजमर्षति शतं धारा अपस्युव: । इन्द्रस्य सख्यमाविशन् ॥

    स्वर रहित पद पाठ

    यत् । सोमः । वाजम् । अर्षति । शतम् । धाराः । अपस्युवः । इन्द्रस्य । सख्यम् । आऽविशन् ॥ ९.५६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 56; मन्त्र » 2
    अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 2

    पदार्थः -
    (यत् सोमः वाजम् अर्षति) यो हि जगदीश्वरः बलं प्रददाति अतः (अपस्युवः) कर्मयोगिजनाः (इन्द्रस्य सख्यम् आविशन्) परमैश्वर्यवतस्तस्य परमात्मनो मैत्रीभावं प्राप्नुवन्तः (शतं धाराः) तेनैव प्रदत्तानि बलानि आमोदधाराश्चोपभुञ्जन्ते ॥२॥

    इस भाष्य को एडिट करें
    Top