साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 59/ मन्त्र 1
पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥
स्वर सहित पद पाठपव॑स्व । गो॒ऽजित् । अ॒श्व॒ऽजित् । वि॒श्व॒ऽजित् । सो॒म॒ । र॒ण्य॒ऽजित् । प्र॒जाऽव॑त् । रत्न॑म् । आ । भ॒र॒ ॥
स्वर रहित मन्त्र
पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् । प्रजावद्रत्नमा भर ॥
स्वर रहित पद पाठपवस्व । गोऽजित् । अश्वऽजित् । विश्वऽजित् । सोम । रण्यऽजित् । प्रजाऽवत् । रत्नम् । आ । भर ॥ ९.५९.१
ऋग्वेद - मण्डल » 9; सूक्त » 59; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 16; मन्त्र » 1
विषयः - अथ स्वाभ्युन्नतिं वाञ्छद्भिरवन्ध्यशासनः परमात्मैव प्रार्थनीय इत्युच्यते।
पदार्थः -
हे परमात्मन् ! (गोजित् अश्वजित्) भवान् गवाश्वाद्यैश्वर्यैर्युक्तस्तथा (रण्यजित्) रणे दुष्टेभ्यः पराजयप्रदाता अथ च (विश्वजित्) संसारे सर्वोपर्यस्ति भवान् अतो मां (पवस्व) पवित्रयतु। तथा (प्रजावद्रत्नमाभर) सन्तानादियुक्तरत्नैः परिपूर्णं करोतु ॥१॥