साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 58/ मन्त्र 4
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे । तर॒त्स म॒न्दी धा॑वति ॥
स्वर सहित पद पाठआ । ययोः॑ । त्रिं॒शत॑म् । तना॑ । स॒हस्रा॑णि । च॒ । दद्म॑हे । तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
स्वर रहित मन्त्र
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति ॥
स्वर रहित पद पाठआ । ययोः । त्रिंशतम् । तना । सहस्राणि । च । दद्महे । तरत् । सः । मन्दी । धावति ॥ ९.५८.४
ऋग्वेद - मण्डल » 9; सूक्त » 58; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 15; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 15; मन्त्र » 4
पदार्थः -
(ययोः) याभिः शक्तिभिः (त्रिंशतं तना) वयं शतत्रयवत्सरपर्यन्तं दीर्घायुषः तथा (सहस्राणि च आदद्महे) सहस्रशक्त्युत्पादनं कर्तुं शक्नुमः। एतादृक्छक्तिसम्पन्नः (मन्दी) आनन्दकारकः (सः) स परमात्मा (तरत्) सर्वपापिनस्तारयन् (धावति) अखिलसंसारं व्याप्तो भवति ॥४॥ इत्यष्टपञ्चाशत्तमं सूक्तं पञ्चदशो वर्गश्च समाप्तः ॥