साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 60/ मन्त्र 2
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् । अति॒ वार॑मपाविषुः ॥
स्वर सहित पद पाठत्वम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अथो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । अति॑ । वार॑म् । अ॒पा॒वि॒षुः॒ ॥
स्वर रहित मन्त्र
तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् । अति वारमपाविषुः ॥
स्वर रहित पद पाठत्वम् । त्वा । सहस्रऽचक्षसम् । अथो इति । सहस्रऽभर्णसम् । अति । वारम् । अपाविषुः ॥ ९.६०.२
ऋग्वेद - मण्डल » 9; सूक्त » 60; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 2
पदार्थः -
हे परमात्मन् ! (तम् त्वा) लोकप्रसिद्धं त्वां स्तोतारो जनाः (अति) अत्यन्तं (अपाविषुः) स्तुतिद्वारा प्रकाशितं कुर्वन्ति। यो भवान् (सहस्रचक्षसम्) अनेकवेदवाग्रचयितास्ति तथा (सहस्रभर्णसम्) सर्वेषां जीवानां पोषकः, अथ च (वारम्) भजनीयोऽस्ति ॥२॥