Loading...
ऋग्वेद मण्डल - 9 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 60/ मन्त्र 3
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति । इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥

    स्वर सहित पद पाठ

    अति॑ । वारा॑न् । पव॑मानः । अ॒सि॒स्य॒द॒त् । क॒लशा॑न् । अ॒भि । धा॒व॒ति॒ । इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् ॥


    स्वर रहित मन्त्र

    अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति । इन्द्रस्य हार्द्याविशन् ॥

    स्वर रहित पद पाठ

    अति । वारान् । पवमानः । असिस्यदत् । कलशान् । अभि । धावति । इन्द्रस्य । हार्दि । आऽविशन् ॥ ९.६०.३

    ऋग्वेद - मण्डल » 9; सूक्त » 60; मन्त्र » 3
    अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 3

    पदार्थः -
    हे जगदीश्वर ! भवान् (इन्द्रस्य हार्दि आविशन्) विज्ञानिनां हृदये निवसन् (वारान् अति पवमानः) स्वोपासकानतिपवित्रयन् (कलशान् अभि धावति) तेषामन्तःकरणेषु स्वयं प्रादुर्भवन् (असिष्यदत्) सर्वत्र स्वस्यन्दनशीलशक्तिभिः पूरितोऽस्ति ॥३॥

    इस भाष्य को एडिट करें
    Top