साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 60/ मन्त्र 4
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द्रेत॒ आ भ॑र ॥
स्वर सहित पद पाठइन्द्र॑स्य । सो॒म॒ । राध॑से । शम् । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । प्र॒जाऽव॑त् । रेतः॑ । आ । भ॒र॒ ॥
स्वर रहित मन्त्र
इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे । प्रजावद्रेत आ भर ॥
स्वर रहित पद पाठइन्द्रस्य । सोम । राधसे । शम् । पवस्व । विऽचर्षणे । प्रजाऽवत् । रेतः । आ । भर ॥ ९.६०.४
ऋग्वेद - मण्डल » 9; सूक्त » 60; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 4
पदार्थः -
(सोम) हे जगदीश्वर ! (इन्द्रस्य राधसे) कर्मयोगिनामैश्वर्य्याय भवान् (शम् पवस्व) आमोदस्य क्षरणं करोतु। अथ च (प्रजावत् रेतम् आभर) प्रजादिभिर्युतमैश्वर्यं परिपूर्णं करोतु ॥४॥ इति षष्टितमं सूक्तं सप्तदशो वर्गश्च समाप्तः ॥