Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 67/ मन्त्र 1
    ऋषिः - भरद्वाजः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥

    स्वर सहित पद पाठ

    त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे । पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥


    स्वर रहित मन्त्र

    त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मंहयद्रयिः ॥

    स्वर रहित पद पाठ

    त्वम् । सोम । असि । धारयुः । मन्द्रः । ओजिष्ठः । अध्वरे । पवस्व । मंहयत्ऽरयिः ॥ ९.६७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 67; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 13; मन्त्र » 1

    पदार्थः -
    (सोम) परमेश्वर ! (त्वम्) भवान् (धारयुः) धारणशक्तिमान् तथा (मन्द्रः) आनन्दप्रदोऽस्ति। अथ च (ओजिष्ठः) ओजस्व्यस्ति। भवान् (अध्वरे) यज्ञे (मंहयद्रयिः) धनानि ददन् (पवस्व) रक्षयतु ॥१॥

    इस भाष्य को एडिट करें
    Top