ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 30
यस्य॑ ते द्यु॒म्नव॒त्पय॒: पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे॑ ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः । तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥
स्वर रहित मन्त्र
यस्य ते द्युम्नवत्पय: पवमानाभृतं दिवः । तेन नो मृळ जीवसे ॥
स्वर रहित पद पाठयस्य । ते । द्युम्नऽवत् । पयः । पवमान । आऽभृतम् । दिवः । तेन । नः । मृळ । जीवसे ॥ ९.६६.३०
ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 30
अष्टक » 7; अध्याय » 2; वर्ग » 12; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 12; मन्त्र » 5
पदार्थः -
(पवमान) सर्वपावक परमात्मन् ! (यस्य) यस्य भवतः (द्युम्नवत्) दीप्तिमत् (पयः) ऐश्वर्यं (दिव आभृतम्) द्युलोकगतो दुग्धमस्ति (तेन) तेनैश्वर्येण (नः) अस्माकं (जीवसे) जीवनं (मृळ) सुखय ॥३०॥ इति षट्षष्टितमं सूक्तं द्वादशो वर्गश्च समाप्तः ॥