ऋग्वेद - मण्डल 9/ सूक्त 68/ मन्त्र 2
स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुह॑: श्र॒थय॑न्त्स्वादते॒ हरि॑: । ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वर॑म् ॥
स्वर सहित पद पाठसः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ । ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥
स्वर रहित मन्त्र
स रोरुवदभि पूर्वा अचिक्रददुपारुह: श्रथयन्त्स्वादते हरि: । तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥
स्वर रहित पद पाठसः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपऽआरुहः । श्रथयन् । स्वादते । हरिः । तिरः । पवित्रम् । परिऽयन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥ ९.६८.२
ऋग्वेद - मण्डल » 9; सूक्त » 68; मन्त्र » 2
अष्टक » 7; अध्याय » 2; वर्ग » 19; मन्त्र » 2
अष्टक » 7; अध्याय » 2; वर्ग » 19; मन्त्र » 2
पदार्थः -
(हरिः) अपगुणापहारकः (उपारुहः) उन्नतिशीलः (सः) पूर्वोक्तविद्वान् (रोरुवत्) बलपूर्वकमुपदिशन् तथा (श्रथयन्) सत्यासत्यं विभेदयन् जिज्ञासुं (स्वादते) संस्करोति। अथ च (पूर्वाः) अनादिसिद्धपरमेश्वरस्तुतिं (अभ्यचिक्रदत्) विशालयति। तथा (देवः) दिव्यगुणो विद्वान् (शर्याणि) अज्ञानानि (तिरः) तिरस्कृत्य (पवित्रम्) शुद्धज्ञानं (परियन्) प्रकाशयन् (उर) महान्तं (ज्रयः) कर्मयोगिनं (निदधते) धारयति। अथ च (वरम्) वरणीयपदार्थं (आदधते) आददातीति यावत् ॥२॥