Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 2
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ । पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥

    स्वर सहित पद पाठ

    उपो॒ इति॑ । म॒तिः पृ॒च्यते॑ । सि॒अयते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ । पव॑मानः । स॒म्ऽत॒निः । प्र॑घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥


    स्वर रहित मन्त्र

    उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥

    स्वर रहित पद पाठ

    उपो इति । मतिः पृच्यते । सिअयते । मधु । मन्द्रऽअजनी । चोदते । अन्तः । आसनि । पवमानः । सम्ऽतनिः । प्रघ्नताम्ऽइव । मधुऽमान् । द्रप्सः । परि । वारम् । अर्षति ॥ ९.६९.२

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 2
    अष्टक » 7; अध्याय » 2; वर्ग » 21; मन्त्र » 2

    पदार्थः -
    (पवमानः) सर्वपावकः परमात्मा (प्रघ्नताम्) शूराणां (सन्तनिरिव) शरा इव रुद्ररूपोऽस्ति। अथ च सज्जनेभ्यः (द्रप्सः) गतिशीलः परमेश्वरः (मधुमान्) मधु इव मधुरोऽस्ति शान्तिप्रद इति यावत्। (वारम्) यो हि परमात्मनो भक्तजनोऽस्ति तस्मै (परि अर्षति) सर्वथा प्राप्नोति। अथ च (अन्तः आसनि) भक्तजनामन्तःकरणेषु (मन्द्राजनि) आह्लादकारिणी (मतिः) बुद्धिः (चोदते) उत्पद्यते येन (मधु सिच्यते) आनन्दवृष्टिः क्रियते ॥२॥

    इस भाष्य को एडिट करें
    Top