ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 1
ऋषिः - कक्षीवान्
देवता - पवमानः सोमः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथ॑: ॥
स्वर सहित पद पाठशिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति । दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥
स्वर रहित मन्त्र
शिशुर्न जातोऽव चक्रदद्वने स्व१र्यद्वाज्यरुषः सिषासति । दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथ: ॥
स्वर रहित पद पाठशिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति । दिवः । रेतसा । सचते । पयःऽवृधा । तम् । ईमहे । सुऽमती । शर्म । सऽप्रथः ॥ ९.७४.१
ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 1
विषयः - अथाभ्युदयपात्रतामाह।
पदार्थः -
(वने) भक्तिविषये (यत्) यदा (जातः) सद्य उत्पन्नः (शिशुः न) बालक इव (चक्रदत्) अयं जिज्ञासुर्जनः स्वभावत एव रोदिति तदा (स्वः) सुखस्वरूपः (वाजी) बलस्वरूपः (अरुषः) प्रकाशस्वरूपः परमेश्वरः (सिषासति) तस्योद्धारं कर्तुमिच्छति। (दिवः रेतसा) यः परमात्मा द्युलोकत आरभ्य सम्पूर्णलोकलोकान्तरैः सह (सचते) स्वीयशक्त्या सङ्गतो भवति। तथा (पयः वृधा) यः स्वकीयैश्वर्येणाभ्युन्नतः (तम्) तस्मात् परमात्मनः (सप्रथः) विततमभ्युदयमथ च (शर्म) कल्याणं (ईमहे) वयं प्रार्थयामः ॥१॥