Loading...
ऋग्वेद मण्डल - 9 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 2
    ऋषिः - कक्षीवान् देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    दि॒वो यः स्क॒म्भो ध॒रुण॒: स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वत॑: । सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिष॑: क॒विः ॥

    स्वर सहित पद पाठ

    दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽ एति॑ । वि॒श्वतः॑ । सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒हा॒र॒ । सम् । इषः॑ । क॒विः ॥


    स्वर रहित मन्त्र

    दिवो यः स्कम्भो धरुण: स्वातत आपूर्णो अंशुः पर्येति विश्वत: । सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिष: कविः ॥

    स्वर रहित पद पाठ

    दिवः । यः । स्कम्भः । धरुणः । सुऽआततः । आऽपूर्णः । अंशुः । परिऽ एति । विश्वतः । सः । इमे इति । मही इति । रोदसी इति । यक्षत् । आऽवृता । समीचीने इति सम्ऽईचीने । दाहार । सम् । इषः । कविः ॥ ९.७४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 2
    अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 2

    पदार्थः -
    (दिवः यः स्कम्भः) यो द्युलोकस्य सहायः अथ च (धरुणः) पृथिव्या धारकोऽस्ति तथा (स्वाततः) विततः (आपूर्णः) सर्वत्र परिपूर्णः (अंशुः) व्यापकः परमात्मा (विश्वतः) सर्वतः (पर्येति) प्राप्तोऽस्ति (सः) असौ परमात्मा (इमे मही रोदसी) इमं भूलोकं द्युलोकं च (आवृता) आश्चर्यकर्मणा (यक्षत्) सङ्गतं करोति। अथ च (समीचीने) सङ्गते द्यावाभूमी स परमात्मैव (दाधार) धारयति। सः (कविः) सर्वज्ञो जगदीश्वरः (इषः) ऐश्वर्यान् (सम्) सम्प्रयच्छति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥२॥

    इस भाष्य को एडिट करें
    Top