ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 3
महि॒ प्सर॒: सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेॠ॒तं य॒ते । ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिॠ॒ग्मिय॑: ॥
स्वर सहित पद पाठमहि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते । ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥
स्वर रहित मन्त्र
महि प्सर: सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेॠतं यते । ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिॠग्मिय: ॥
स्वर रहित पद पाठमहि । प्सरः । सुऽकृतम् । सोम्यम् । मधु । उर्वी । गव्यूतिः । अदितेः । ऋतम् । यते । ईशे । यः । वृष्टेः । इतः । उस्रियः । वृषा । अपाम् । नेता । यः । इतःऽऊतिः । ऋग्मियः ॥ ९.७४.३
ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 3
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 3
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 3
पदार्थः -
(ऋग्मियः) स्तुत्यः (इत ऊतिः) सर्वविधरक्षकः (यः) यः (नेता) नियन्तास्ति अथ च (अपां वृषा) सम्पूर्णकर्मणां फलदः (उस्रियः) प्रकाशस्वरूपोऽस्ति स परमेश्वरः (इतः) द्युलोकाद् उत्पन्नस्य (वृष्टेः) वृष्ट्यादिकस्य (ईशे) ईश्वरोऽस्ति। (महि) महीयान् (प्सरः) सर्वस्यादनकर्तास्ति। तथा (सुकृतम्) शोभनकर्म्मास्ति। (सोम्यम्) सौम्यस्वभाववान् अस्ति। (अदितेः) तस्मात् ज्ञानस्वरूपात् परमात्मनः (गव्यूतिः) अस्य जीवात्मनो मार्गः (मधु) मधुरः अथ च (उर्वी) विस्तृतो भवति। अथ च (ऋतं यते) सत्ययज्ञं प्राप्तवते पुरुषाय स परमात्मा शुभं विदधाति ॥३॥