ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 4
आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते । स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥
स्वर सहित पद पाठआ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ । स॒मी॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥
स्वर रहित मन्त्र
आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते । समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥
स्वर रहित पद पाठआत्मन्ऽवत् । नभः । दुह्यते । घृतम् । पयः । ऋतस्य । नाभिः । अमृतम् । वि । जायते । समीचीनाः । सुऽदानवः । प्रीणन्ति । तम् । नरः । हितम् । अव । मेहन्ति । पेरवः ॥ ९.७४.४
ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 4
पदार्थः -
येन परमात्मना (नभः) आकाशमण्डलात् (आत्मन्वत्) सारभूतं (घृतम्) जलादिकं (दुह्यते) प्रपूर्यते अथ च (ऋतस्य नाभिः) सत्यस्य नाभिस्थानीयोऽस्ति तथा (अमृतम्) अमृतस्वरूपोऽस्ति सः (पयः) तृप्तिरूपः परमात्मा (विजायते) विराजमानो वर्तते। (नरः) यः पुरुषः तस्योपासनां करोति (तम्) तं पुरुषं (पेरवः) सर्वरक्षिकाः शक्तयः (प्रीणन्ति) तर्पयन्ति। अथ च (समीचीनाः) सुन्दराः (सुदानवः) दानशीलाश्शक्तयः तदर्थं (हितम्) हितस्य (अव मेहन्ति) वृष्टिं कुर्वन्ति ॥४॥