ऋग्वेद - मण्डल 9/ सूक्त 74/ मन्त्र 5
अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
स्वर सहित पद पाठअरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् । दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥
स्वर रहित मन्त्र
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं१ मनुषे पिन्वति त्वचम् । दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥
स्वर रहित पद पाठअरावीत् । अंशुः । सचमानः । ऊर्मिणा । देवऽअव्यम् । मनुषे । पिन्वति । त्वचम् । दधाति । गर्भम् । अदितेः । उपऽस्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे ॥ ९.७४.५
ऋग्वेद - मण्डल » 9; सूक्त » 74; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 31; मन्त्र » 5
पदार्थः -
(ऊर्मिणा) स्वीयानन्दतरङ्गैः (सचमानः) सङ्गतः (अंशुः) व्यापकः परमात्मा (अरावीत्) सदुपदेशं करोति। अथ च (मनुषे) मनुष्याय (देवाव्यं त्वचम्) देवभावोत्पादकं शरीरं (पिन्वति) पुष्णाति। तथा (अदितेः उपस्थे) अस्याः पृथिव्याः (गर्भम्) नानाविधौषधेरुत्पत्तिरूपं गर्भं (आ दधाति) धारयति। (येन) यतः (तोकम्) दुःखनाशकं (तनयम्) पुत्रपौत्रादिकं (धामहे) वयं धारयेम ॥५॥