ऋग्वेद - मण्डल 9/ सूक्त 78/ मन्त्र 1
प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति । गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥
स्वर सहित पद पाठप्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ । गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥
स्वर रहित मन्त्र
प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति । गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥
स्वर रहित पद पाठप्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति । गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निःऽकृतम् ॥ ९.७८.१
ऋग्वेद - मण्डल » 9; सूक्त » 78; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 1
विषयः - अथ सर्वनियामकस्येश्वरस्यैश्वर्यमुपदिश्यते।
पदार्थः -
(राजा) सर्वप्रकाशको जगदीशः (वाचम्) वेदवाणीम् (जनयन्) उत्पादयन् (प्रासिष्यदत्) संसारमुत्पादयति। अथ च (अपः) कर्माणि (वसानः) दधानः (गाः) पृथिव्यादिलोकानां (अभि) सम्मुखं (इयक्षति) गतिं करोति। यः पुरुषः (अस्य) परमेश्वरस्य (तान्वा) शक्त्या (रिप्रम्) स्वकीयदोषान् (गृभ्णाति) मार्ष्टि अर्थात् दोषत्वेन गृह्णाति। एवं प्रकारेण (अविः) सुरक्षितः सन् (शुद्धः) पवित्रोऽस्ति (देवानाम्) देवतानां (निष्कृतम्) स्थानं (उपयाति) प्राप्नोति ॥१॥