ऋग्वेद - मण्डल 9/ सूक्त 77/ मन्त्र 5
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते । असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥
स्वर सहित पद पाठचक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते । असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥
स्वर रहित मन्त्र
चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते । असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥
स्वर रहित पद पाठचक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते । असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥ ९.७७.५
ऋग्वेद - मण्डल » 9; सूक्त » 77; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 2; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 2; मन्त्र » 5
पदार्थः -
(चक्रिः) स पुरुषः अनुष्ठानपरायणो भवति तथा (दिवः) द्युलोकं (पवते) पवित्रयति च। अथ च (कृत्व्यः) कर्तव्यशीलः (रसः) आमोदरूपः (महान्) बृहत् (अदब्धः) अदम्भनीयः परमेश्वरः (हुरुग्यते) कुटिलजनं (वरुणः) स्वीयविद्याबलेनाच्छादयति तथा (असावि) ज्ञानबलमुत्पादयति। (मित्रः) सर्वेभ्यः प्रियोऽस्ति। (वृजनेषु) सर्वत्र (अत्यः) गन्तुं शक्नोति। अथ च (यज्ञियः) यज्ञकर्मसु योग्यः (वृषयुः) सर्वासां कामनानां (यूथे) वर्षकगणः (न) इव (कनिक्रदत्) गर्जन् अस्मिन् संसारे यात्रां करोति ॥५॥ इति सप्तसप्ततितमं सूक्तं द्वितीयो वर्गश्च समाप्तः।