ऋग्वेद - मण्डल 9/ सूक्त 78/ मन्त्र 3
स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् । ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥
स्वर सहित पद पाठस॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् । ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥
स्वर रहित मन्त्र
समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् । ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥
स्वर रहित पद पाठसमुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् । ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम् ॥ ९.७८.३
ऋग्वेद - मण्डल » 9; सूक्त » 78; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 3
पदार्थः -
(सोममभि) परमात्मनः समक्षं (समुद्रिया आसीना अप्सरसः) अन्तरिक्षस्य स्थिरशक्तयः (अक्षरन्) क्षरन्त्यः सत्यः (मनीषिणम्) मनस्विनं पुरुषं (अन्तः) अन्तःकरणे उद्बोधयन्ति। (ताः) शक्तयः (ईम्) अमुं (हिन्वन्ति) प्रेरयन्ति। अथ च उक्तपरमात्मनः सकाशात् (हर्म्यस्य) अखिलसौन्दर्यसाधनभूतं (सक्षणिम्) समस्तापत्तिसंहारकं (पवमानम्) पावकं (अक्षितम्) क्षयरहितं पदमुपासकाः (याचन्ते) प्रार्थयन्ते ॥३॥