ऋग्वेद - मण्डल 9/ सूक्त 78/ मन्त्र 4
गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥
स्वर सहित पद पाठगो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥
स्वर रहित मन्त्र
गोजिन्न: सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥
स्वर रहित पद पाठगोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् । यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥ ९.७८.४
ऋग्वेद - मण्डल » 9; सूक्त » 78; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 4
अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 4
पदार्थः -
(सोमः) परमेश्वरः (गोजित्) नानाविधसूक्ष्मातिसूक्ष्म- शक्तिजेतास्ति। तथा (रथजित्) महावेगवन्तमपि पदार्थं जयति। अथ च (हिरण्यजित्) महतीमपि शोभामभिभवति। तथा (स्वर्जित्) सकलसुख-विजयकर्तास्ति तथा (अब्जित्) महान्तमपि वेगं विजयते अथ च (सहस्रजित्) असङ्ख्यवस्तुविजेतास्ति। (यम्) इमम् (मदम्) आह्लादकं (स्वादिष्ठम्) ब्रह्मानन्दप्रदं (द्रप्सम्) रसस्वरूपं (अरुणम्) प्रकाशरूपं (मयोभुवम्) सुखदं परमात्मानं (देवासः) दिव्यगुणवन्तो विद्वज्जनाः (नः) अस्माकं (पीतये) तृप्तये (चक्रिरे) व्याख्यानं कुर्वते ॥४॥