ऋग्वेद - मण्डल 9/ सूक्त 8/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध॑न्तो अस्य वी॒र्य॑म् ॥
स्वर सहित पद पाठए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् । वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥
स्वर रहित मन्त्र
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥
स्वर रहित पद पाठएते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् । वर्धन्तः । अस्य । वीर्यम् ॥ ९.८.१
ऋग्वेद - मण्डल » 9; सूक्त » 8; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 30; मन्त्र » 1
विषयः - सम्प्रति सोमात्परमात्मनो निखिलकार्यसिद्धिः कथ्यते।
पदार्थः -
(अस्य, इन्द्रस्य) अस्य जीवात्मनः (अभि, प्रियम्, कामम्) अभित इष्टां कामनाम् (अक्षरन्) ददत् (वीर्यम्) तद्बलं च (एते, सोमाः) असौ परमात्मा (वर्धन्तः) समिद्धं कुर्वन्नास्ते ॥१॥