Loading...
ऋग्वेद मण्डल - 9 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 80/ मन्त्र 5
    ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिप॑: । इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥

    स्वर सहित पद पाठ

    तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ । इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥


    स्वर रहित मन्त्र

    तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिप: । इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥

    स्वर रहित पद पाठ

    तम् । त्वा । हस्तिनः । मधुऽमन्तम् । अद्रिऽभिः । दुहन्ति । अप्ऽसु । वृषभम् । दश । क्षिपः । इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःऽइव । ऊर्मिः । पवमानः । अर्षसि ॥ ९.८०.५

    ऋग्वेद - मण्डल » 9; सूक्त » 80; मन्त्र » 5
    अष्टक » 7; अध्याय » 3; वर्ग » 5; मन्त्र » 5

    पदार्थः -
    (तं त्वा) प्रागुक्तगुणसम्पन्नं त्वां (वृषभम्) कामनावर्षकं परमात्मानं (दश क्षिपः) दशसङ्ख्याकाः प्राणाः (अद्रिभिः) स्वशक्तिभिः (हस्तिनः) स्वच्छतापूर्वकं (अप्सु) कर्मविषये (दुहन्ति) दुहते। (सोम) हे परमात्मन् ! (इन्द्रं दैव्यं जनम्) दिव्यगुणसम्पन्नं कर्मयोगिनं (मादयन्) आनन्दयन् (सिन्धोरिव ऊर्मिः) समुद्रवीचिरिव (पवमानः) पवित्रयन् त्वं (अर्षसि) प्राप्तो भवसि ॥५॥ इत्यशीतितमं सूक्तं पञ्चमो वर्गश्च समाप्तः।

    इस भाष्य को एडिट करें
    Top