ऋग्वेद - मण्डल 9/ सूक्त 81/ मन्त्र 3
ऋषिः - वसुर्भारद्वाजः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
आ न॑: सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥
स्वर सहित पद पाठआ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः । शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥
स्वर रहित मन्त्र
आ न: सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः । शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥
स्वर रहित पद पाठआ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघऽवा । राधसः । महः । शिक्ष । वयःऽधः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः ॥ ९.८१.३
ऋग्वेद - मण्डल » 9; सूक्त » 81; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 3
पदार्थः -
(सोम) हे परमात्मन् ! भवान् (पवमानः) पवितास्ति। (इन्दो) हे सर्वप्रकाशक ! त्वम् (नः) अस्मान् (वसु) सर्वविधं धनं (आकिर) देहि। (मघवा) सर्वधनस्वाम्यसि। अतो मह्यं (महो राधसः) उत्कृष्टधनस्य (भव) प्रदाता भव। हे परमेश्वर ! त्वं मह्यं (सुचेतुना) स्वीयपवित्रज्ञानेन (शिक्ष) शिक्षय। अथ च (वयोधः) त्वं सर्वैश्वर्यधारकोऽसि (वसवे) ऐश्वर्ययोग्याय ममैश्वर्यं देहि। अथ च (गयम्) धनं (अस्मादारे) मत्सकाशात् (मा परा सिचः) मान्यत्र कुरु ॥३॥